This page has not been fully proofread.

ur
 

 
तृतीयोऽध्यायः ॥
 
दानीं ब्रह्मचर्यादिसाधनानन्तरं तत्प्राप्यं च
ब्रह्म प्रतिपादयितुं तृतीयचतुर्थावारभ्येते !
तत्र तावद्ब्रह्मचर्यादि साधनं श्रुत्वा तद्ब्रह्मवे-
दनाकाङ्क्षी प्राह धृतराष्ट्रः-
धृतराष्ट्र उवाच-
सनत्सुजात यदिमां परार्थी
 
ब्राह्मीं वाचं वदसि हि विश्वरूपाम् ।
परां हि कार्येषु सुदुर्लभां कथां
प्रब्रूहि मे वाक्यमेवं कुमार ॥ १ ॥
 
हे सनत्सुजात, यत् यस्मात् इमां परार्थाम उत्कृष्टार्था
ब्राह्मीं ब्रह्मसंबन्धिनीं वाचं वदसि हि विश्वरूपां नानारूपां
पराम् उत्तमां कार्येषु कार्यवर्गेषु प्रपञ्चेषु सुदुर्लभां श्रवणाया-
प्यशक्यां कथां प्रब्रूहि मे वाक्यमेवंभूतं कुमार, यस्मात्त्वं
ब्राह्मीं वाचं परमपुरुषार्थसाधनभूतां सुदुर्लभां वदसि, तस्मा-
त्वमेव वक्तुमर्हसीत्यभिप्रायः ॥
 
SMB 18