This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
साक्षान् सर्वज्ञः, न अनात्ममात्रदर्शी ॥
 
'यस्त्वेतेभ्यः' इत्यादिना उक्तमेवार्थ पुनरपि दर्शयति अव-
श्यकर्तव्यत्वप्रदर्शनार्थम-
4
 
ज्ञानादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति ।
वेदानां चारपूर्वेण चैतद्विद्वन्ब्रवीमि ते ॥ ५१ ॥
 
इति श्रीमत्सनत्सुजातीयभाष्ये द्वितीयोऽध्यायः ॥
ज्ञानादिषु 'ज्ञानं च' इत्यादिना पूर्वोक्तेषु स्थितोऽप्येवं
यथा सत्ये तिष्ठन ब्रह्म पश्यति एवमेव ब्रह्म पश्यति । वेदानां
चारपूर्वेण वेदान्तश्रवणपूर्वक मित्यर्थः । अथवा, गुणान्तरवि-
धानमेतत् — ज्ञानादिषु स्थितोऽपि न केवलं तावन्मात्रेण
पश्यति; अपि तु एवमेव वक्ष्यमाणप्रकारेण वेदान्तविचार-
पूर्वेण वेदान्तश्रवणादिपूर्वकमेव पश्यति ब्रह्म । एतत् वेदा -
न्तानां विचारप्रकारं हे विद्वन, ब्रवीमि ते वक्ष्यामीत्यभि-
प्रायः ॥
 
इति सनत्सुजातीयभाष्ये द्वितीयोऽध्यायः ॥