This page has not been fully proofread.

द्वितीयोऽध्याय ।
 
सर्वार्थानां व्याकरणात् वैयाकरण उच्यते । न पुनः
शब्दैकदेशव्याकरणात वैयाकरणो भवति । भवतु सर्वार्थानां
व्याकरणात् वैयाकरणत्वम्, ततः किमिति चेत् . तन्मूलतो
व्याकरणं पूर्वोक्तादक्षराद्धि सर्वस्य नामरूपप्रपञ्चस्य व्याक-
रणम । श्रूयते च 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे
व्याकरवाणि इति । तम्माद्ब्रह्मण एव साक्षाद्वैयाकरणत्वम् ।
व्याकरोतीति तत्तथा असावपि विद्वान तत् ब्रह्म तथैव
व्याकरोतीति वैयाकरणः ॥
 
सर्वज्ञोऽप्येष एवेत्याह-
-
 
प्रत्यक्षदर्शी लोकानां
 
सर्वदर्शी भवेन्नरः ।
 
सत्ये वै ब्रह्मणि तिष्टं-
स्तद्विद्वान्सर्वविद्भवेत् ॥ ५० ॥
 
२६९
 
प्रत्यक्षदर्शी लोकानां यः प्रत्यक्षेण भूरादीन लोकान्
पश्यति, स सर्वदर्शी नरो भवेत् सर्वरूपं परमात्मानं पश्यति ।
असौ
पुनः सत्ये सत्यादिलक्षणे ब्रह्मणि तिष्ठन् मनः ममाद-
धाति । तद्विद्वान सत्यादिलक्षणं ब्रह्म विद्वान आत्मत्वेन
जानन सर्वविद्भवेत् सर्वे जानातीत्यर्थः । तम्मादेष एव