This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
अभिमुखीभवेदित्यर्थः। श्रूयते च —— 'यमेवैष वृणुते तेन
लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् इति । अनन्तरं
आविर्भूतस्वरूपः सन् बहु भूमानं तमसः पारं परम आ-
त्मानं आप्नुयात् इत्यर्थः ॥
 
मुनिरप्येष एवेत्याह-
२६८
 
मौनाद्ध मुनिर्भवति
नारण्यवसनान्मुनिः ।
 
अक्षरं तं तु यो वेद
 
म मुनिश्रेष्ठ उच्यते ॥ ४८ ॥
 
मौनात् पूर्वोत्तात् तूष्णींसावादेव मुनिर्भवति, न पुनः
अरण्यवसनमात्वात् मुनिः भवति । तेषामपि तूष्णींभूतानां
मध्ये यस्तु पुनः अक्षरं अविनाशिनं तं परमात्मानं वेद 'अय-
महमस्मि' इति साक्षाजानाति स मुनिश्रेष्ठ उच्यते । श्रूयते
च - 'एतमेव विदित्वा मुनिर्भवति' इति ॥
वैयाकरणोऽप्येष एवेत्याह-
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते ।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥