This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
त्मानम् आत्मत्वेन जानातीत्यर्थ: । अथवा, नास्यात्मनः पर्ये-
षणम अन्वेषणं गच्छेत् प्रत्यर्थिषु प्रतिपक्षभूतदेहेन्द्रियादिषु,
देहेन्द्रियतद्धर्मानात्मत्वेन न गृह्णीयादित्यर्थः । अविचिन्वन देहे-
न्द्रियतद्धर्मानात्मत्वेनासंचिन्वन तत्साक्षिणमात्मानमेव प्रति-
पद्यमानः तत्त्वंपदार्थशोधनानन्तरम इमं प्रमात्रादिसाक्षिणं
परमात्मानं पश्यति, देहेन्द्रियतद्धर्मानात्मत्वेनाप्रतिपद्यमानस्त-
स्वमस्यादिवाक्यैः परमात्मानमात्मत्वेन पश्यतीत्यर्थः ॥
 
तृष्णीभूत उपासीत
 
न चेच्छेन्मनसा अपि ।
अभ्यावर्तेत ब्रह्मास्मै
 
बह्वनन्तरमाप्नुयात् ॥ ४७ ॥
 
यम्मान सर्वविषयपरित्यागेनैव आत्मदर्शनसिद्धिः त
स्मान् तूष्णींभूतः सर्वकर्मसंन्यासं कृत्वा स्वात्मव्यतिरिक्तं
सर्व परित्यज्य केवलो भूत्वा स्वात्मानमेव लोकम उपासीत,
न चेच्छेन्मनसा अपि विषयेच्छां न कुर्यात् । यस्तूष्णींभूतः
विषयोपसंहारं कृत्वा स्वात्मानमेव लोकम उपास्ते, अस्मै
तूष्णींभूताय ब्राह्मणाय ब्रह्म अपूर्वादिलक्षणम अभ्यावर्तेत