This page has not been fully proofread.

२६६
 
सनत्सुजातीयभाप्ये
 
अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम इति ? तत्राह-
एवं वेदानां वेदनरूपात्मप्रतिपादनप्रकारं मयोक्तं योऽभिवि-
जानाति, स जानाति परं हि तन् परं ब्रह्म जानाति इत्येव ।
यो हि पाण्डित्यं निर्विद्य व्यवस्थितः सः क्षिप्रं बाल्या-
दिकं निर्विद्य ब्राह्मणो भवतीत्यर्थः ॥
 
यम्मात्सत्यनिष्ठस्यैव ब्राह्मणत्वप्रसिद्धिः, तस्मात् विषयपरो
न भवेदित्याह-
नास्य पर्येषणं गच्छे-
प्रत्यर्थिषु कदाचन ।
अविचिन्वन्निमं वेदे
 
ततः पश्यति तं प्रभुम् ॥ ४६ ॥
 
'विषयाश्चेन्द्रियाण्येव देहोऽहंकार एव च । बाह्या आभ्य-
न्तरा घोराः शत्रवो योगिनः स्मृताः इति दर्शनातू नास्य
आत्मनः प्रत्यर्थिषु प्रतिपक्षभूतेषु देहेन्द्रियशव्दादिविषयेषु प
र्येषणं परित एषणं गच्छेत् विषयान्वेषणपरो न भवेदित्यर्थः ।
अविचिन्वन विषयसंचयमकुर्वन इमं प्रत्यगात्मानं वेदे उपनि-
पत्सु तत्त्वमस्यादिवाक्येषु ततः पश्चात् पश्यति तं प्रभुं परमा-