This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
संवेदनेऽप्येवमथामनन्ति
 
तस्मिन्हि नित्ये परमात्मनोऽथें ॥ ४४ ॥
 
यामांशभागस्य त्रियामञ्चन्द्रः' इति श्रुतेः चन्द्रांशभागस्य
प्रतिपञ्चन्द्रकलादर्शने यथा महीरुहस्य वृक्षस्य शाखा हेतुर्भव-
ति, तथा हि वेदाः तथैव परमात्मनः स्वरूपभूते संवेदने नित्ये
अविनाशिनि अर्थे परमपुरुषार्थस्वरूपे पूर्णानन्दरूपे हेतवो
भवन्ति, न पुनः साक्षाद्वाचामगोचरं परमात्मानं प्रतिपादय-
न्तीत्येवम आमनन्ति ॥
 
16
 
य एवं वेदानां वेदरूपात्मप्रतिपादनप्रकारमवगम्य व्याचष्टे.
सोऽपि ब्राह्मण इत्याह-
अभिजानामि ब्राह्मण-
माख्यातारं विचक्षणम् ।
एवं योऽभिविजानाति
 
सजानाति परं हि तत् ॥ ४५ ॥
 
यो वेदप्रतिपादनप्रकारं व्याचष्टे, तम् आख्यातारं विचक्षणं
ब्राह्मणं अभिजानामि । ननु बाल्यं पाण्डित्यादिकं निर्विद्याव-
स्थितमेव ब्रूते ब्राह्मणम् अथ ब्राह्मणः' इति कथमुच्यते
 
6