This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
यो वेद वेदान्स च वेद वेद्यं
न नं विदुर्वेदविदो न वेदाः ।
तथापि वेदेन विदन्ति वेदं
 
ये ब्राह्मणा वेदविदो भवन्ति ॥ ४३ ॥
यो वेद जानाति वेदान ऋगादीन्, स च वेद वेद्यं
सोऽपि अनात्मविदेव भिन्नेन संवेदनेन वेद्यं प्रपञ्चं वेद ।
नन्वेवं तर्हि वेद्यवत् परमात्मानमपि जानीयादित्याशङ्कयाह -
न तं परमात्मानं वाचामगोचरं विदुः वेदविदो न वेदाः वेदा
अपि न तं विदुः न तं विषयी कुर्वन्तीत्यर्थः । नन्वेवं तर्हि
कथमौपनिषढ़ ब्रह्म स्यादित्याशाह तथापि बदन
विदन्ति वेदं परमात्मानं यद्यपि वागाद्यविषयं ब्रह्म, तथापि
वेदेन ऋगादिना विदन्ति विजानन्ति वेदं संविद्रूपं परमा-
त्मानम् । के ते? ये ब्राह्मणा वेदविदो भवन्ति वेदानां वेदप्र-
तिपादनप्रकार जानन्तीत्यर्थः ॥
 
कथं तर्ह्यविषयमेव ब्रह्म वेदाः प्रतिपादयन्तीत्याशङ्कयाह-
यामांशभागस्य तथा हि वेदा
 
यथा हि शाखा च महीरुहरू ।