This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
दधि 'यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह
 
दिश्रुतिविरोधः प्रसज्येतेत्याशङ्कयाह -
 
२६३
 
इत्या-
न वेदानां वेदिता कश्चिदस्ति
वेदेन वेदं न विदुर्न वेद्यम् ।
यो वेद वेदं स च वेद वेद्यं
 
यो वेद वेद्यं न स वेद सत्यम् ॥ ४२ ॥
 
न वेदानाम ऋगादीनां मध्ये कश्चिदपि वेदः परमात्मनो
वाचामगोचरस्य संविद्रूपस्य वेदिता अस्ति । कस्मात ? यस्मा-
तू वेढेन ऋगादिरूपेण जडेन वें संविद्रूपं परमात्मानं न वि-
दुः न वेद्यं प्रपञ्चमपि वेद्यं विदुः, संविधीनत्वात्सर्वसि
द्धेः । यस्मात् संविदधीना सर्वसिद्धिः तस्मात् यो वेढ़ जाना-
ति वेदं संविद्रूपं परमात्मानम्, स च वेद वेद्यम् इदं सर्वम् ।
तथा च श्रुतिः - 'आत्मनो वा अरे दर्शनेन श्रवणेन सत्या
विज्ञानेनेदं सर्वं विदितम्' इति । यो वेद वेद्यम् इति रूपं न
स वेद न जानाति सत्यं सत्यादिलक्षणं परमात्मानम ॥
 
-
 
नन्वेवं तर्हि 'वेदन वेदं न विदुर्न वेद्यम्' इति वदता अना-
त्मविदः प्रपञ्चासिद्धिरेवेत्युक्तं भवति इत्याशङ्कयाह -