This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
भवेदेतदेवं यदि, तदेव ब्रह्म सिध्येत् ; न च सिध्यति,
अन्यपरत्वाद्वेदस्य इति ; तत्राह-
२६२
 
छन्दांसि नाम द्विपदां वरिष्ट
स्वच्छन्दयोगेन भवन्ति तत्र ।
छन्दोविदस्तेन च तानधीत्य
 
गता हि वेदस्य न वेद्यमार्याः ॥ ४१ ॥
 
हे द्विपदां वरिष्ठ, छन्दांसि वेदाः स्वच्छन्दयोगेन, स्वच्छ-
न्दता स्वाधीनता, यथाकाममित्यर्थः । तत्र परमात्मनि भ
वन्ति तत्रैव प्रमाणं भवन्ति । श्रूयतेच– 'सर्वे वेदा यत्प-
6
 
दमामनन्ति' इति । वेदैश्च सर्वैरहमेव वेद्यः' इति च ।
पुरुषार्थपर्यवसायित्वाद्वेदस्य तद्व्यतिरिक्तस्य सर्वस्य अनित्या-
शुचिदुःखानुविद्धत्वेन पुरुषार्थत्वाभावात् तत्स्वरूपतज्ज्ञानत-
त्साधनप्रतिपादकत्वेन वेदानां प्रामाण्यमित्यर्थः । यस्मात
वेदाः स्वच्छन्दयोगेन तत्रैव परमात्मनि प्रमाणं भवन्ति, तेन
च हेतुना तान वेदान् अधीत्य अधिगम्य वेदान्तश्रवणादिकं
कृत्वा गताः प्राप्ताः वेदस्य संविद्रूपस्य परमात्मनः स्वरूपं
न वेद्यं प्रपञ्चम् आर्याः पण्डिता ब्रह्मविदः ॥
 
एवं तर्हि वेदवेद्यत्वे 'अन्यदेव तद्विदितादयो अविदिता-