This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
२६१
 
कसत्यसंकल्पादयो न सिध्यन्तीत्यर्थः । ततः कर्म यज्ञादिकं
प्रतायेत विस्तृतं भवेत् । तदेतत्सर्वं सत्यस्य सत्यादिलक्षणस्य
ब्रह्मण: अनवधारणात् अनवगमात् आत्माज्ञाननिमित्तत्वात्
संसारस्य यावत्परमात्मानमात्मत्वेन साक्षान्न विजानाति, ता-
वयं तापत्वयाभिभूतो मकरादिभिरिव रागादिभिरितस्ततः
समाकृष्यमाणां मोमुह्यमानोऽसत्यसंकल्पः स्वर्गपश्वन्नादिहेय-
साधनेषु वर्तत इत्यर्थः ॥
 
इदानी ब्राह्मणलक्षणमाह-
विद्याद्वहुपटं तं तु बहुवागिति ब्राह्मणम् ।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥
 
बहुपठं तम् आख्यानपञ्चमवेदाध्यायिनं बहुवागिति वि
द्यात् न साक्षात् ब्राह्मणमिति । कस्तार्ह मुख्यो ब्राह्मण इति
चेत् - य एव सत्यात् सत्यादिलक्षणात् नापैति, स्वाभावि-
कचित्सदानन्दाद्वितीयब्रह्मात्मनैवावतिष्ठत इत्यर्थः । सः एव
ज्ञेयो ब्राह्मणस्त्वया, नेतरः यः सत्यात्प्रच्युतोऽकृतार्थः सन्
कर्मणि प्रवर्तते । तथा च ब्रह्मविदमेव ब्राह्मणं दर्शयति
श्रुतिः— 'मौनं चामौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः '
'विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति' इति च ॥
 
"
 
इति,