This page has not been fully proofread.

२६०
 
सनत्सुजातीयभाष्ये
 
ज्ञाने, विद्ल लाभे, एतेषां धातूनां विषये वर्तन्ते यस्मात्,
ततो वेदा इत्युक्ताः । तदेकवेदस्वरूपं किमिति चेत्, 'सत्यं
ज्ञानमनन्तं ब्रह्म' इति श्रुतेः । तस्मात् सत्यस्य एकवेदस्वरूपस्य
ब्रह्मणोऽनवगमाद्वेदा बहवो व्याख्याताः सर्वे वेदास्तदर्थदर्श-
नहेतवः । हे राजेन्द्र, त्वमपि किमेवं ज्ञात्वा मत्येव ब्रह्मणि
स्थितोऽसि ' कश्चित पुनः सत्ये अवस्थितः प्रतिष्ठित इति ॥
भूयो मे शृणु -
 
य एनं वेद तत्सत्यं प्राज्ञो भवति नित्यदा ।
दानमध्ययनं यज्ञो लोभादेव प्रवर्तते ॥ ३८ ॥
किमर्थम् ? नो चेत्, तत्र यद्भवति तच्छृणु-
सत्यात्प्रच्यवमानानां
 
संकल्पा वितथाभवन् ।
 
ततः कर्म प्रतायेत
 
सत्यस्यानवधारणात् ॥ ३९ ॥
 
सत्यात् सत्यज्ञानादिलक्षणात् ब्रह्मणः प्रच्यवमानानां स्वा-
भाविकब्रह्मभावपरित्यागेन अनात्मनि देहादावात्मभावमाप-
नानां संकल्पा वितथा अभवन व्यर्था भवन्ति, स्वाभावि-