This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
२५९
 
बहुमन्यते सर्वस्माद्धिकोऽहमिति । कथ्यते इति केचित्पठ-
न्ति । आख्यानपञ्चमैर्वेदैः कश्चिज्जनः पञ्चवेदीति कथ्यत
इत्यर्थः । तथा चान्ये चतुर्वेदाः त्रिवेदाः अपरे द्विवेदाः एकवे-
दाश्च अनृचश्च तथा अपरे परित्यक्तऋगादिवेदाः अपरे । एतेषु
मनुष्येषु अधिकं श्रेष्ठं ब्रूहि, यमहं ब्राह्मणं वेद विद्याम् ॥
 
य एवं
 
स्वाभाविकचित्सदानन्दाद्वितीयब्रह्मात्मनावस्थितः,
स एव ब्राह्मण इति दर्शयिष्यन तद्व्यतिरिक्तस्य सर्वस्य
तदज्ञानमूलत्वं दर्शयति
 
एकवेदस्य चाज्ञानाद्वेदास्ते बहवोऽभवन् ।
सत्यस्यैकस्य राजेन्द्र सत्ये कञ्चिदवस्थितः ॥
 
एकस्य वेदस्य — वेद्यमिदंरूपम् अनिदंरूपम, वेदनं
वेदः- एकस्याद्वितीयस्य संविद्रुपस्येत्यर्थः । तस्य एकवेदस्य
ब्रह्मणोऽनवगमाहगाद्यो वेदाः बहवोऽभवन् । अत्र ऋगा-
दयो वेदाः तत्प्रतिपत्त्यर्थं विचारं कुर्वन्ति इति वेदाख्यान-
मवापुः । अथवा, सद्भावं साधयन्तीति वेदाः । विदन्ति
वेदनसाधनभूता इति वा वेदाः । अथवा, ब्रह्माधीनमात्मानं
लभन्त इति वा वेदाः । अथवा, ब्रह्मण आत्मतया लाभ-
हेत इति वा वेदाः । विद विचारणे, विद सत्तायाम्, विद