This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
हे राजेन्द्र, यन्मां पृच्छसि तत् संक्षेपात् समासत: ब्रवी-
मिते, एतत् वक्ष्यमाणं पापहरं शुद्धं जन्ममृत्युजरापहम् ॥
किं तदिति चेत्, तवाह-
२५८
 
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत ।
अनीतानागतेभ्यश्च मुक्तश्चेत्स सुग्वी भवेत् ॥
 
हे भारत, इन्द्रियेभ्यः सविषयेभ्यः पञ्चभ्यः वर्तमानेभ्यः
मनसञ्चैव तथा अतीतेभ्यः अनागतेभ्यश्च मुक्तश्चेत्, स सुखी
भवेत् मुक्त एव भवेदित्यर्थः ।
 
एवमुक्ते, प्राह धृतराष्ट्र:-
धृतराष्ट्र उवाच-
आख्यानपञ्चमैवैदर्भूयिष्ठं कत्थ्यते जनः ।
तथा चान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ॥ ३५ ॥
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ।
एतेषु मेऽधिकं ब्रूहि यमहं वेद ब्राह्मणम् ॥
 
आख्यानं पुराणं पञ्चमं येषां वेदानां ते आख्यानपञ्च-
माः । श्रूयतेच्छान्दोग्ये— 'इतिहासपुराणं पञ्चमम्' इति ।
तैः आख्यानपञ्चमैः वेदैः भूयिष्ठम् अत्यर्थ कत्थ्यतेलायते