This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
२५७
 
सत्यात्मा सत्यस्वरूपो भव हे राजेन्द्र, सत्ये लोका: प्रति-
विता: तांस्तु सत्यमुखान सत्यप्रधानान सत्याधीनात्मलाभान
आहुः । सत्ये हि अमृतमाहितम् ; अमृतं मोक्षः ॥
 
;
 
निवृत्तेनैव दोषेण तपोव्रतमिहाचरेत् ।
एतद्वात्रा कृतं वित्तं सत्यमेव सतां वरम् ॥
निवृत्तेनैव दोषेण 'क्रोधादयः' इत्यादिना पूर्वोक्तदोषरहि-
तः सन् तपोव्रतमिहाचरेत् । एतत् धात्रा परमेश्वरेण कृतं वि-
त्तं सत्यमेव सतां वरम् ॥
 
इदानीम 'कथं समृद्धमत्यर्थम इत्यनेन उपक्रान्तमर्थमुप-
संहरति-
दोषैरेतैर्वियुक्तं तु गुणरेतैः समन्वितम् ।
एतत्समृद्धमत्यर्थ तपो भवति केवलम् ॥ ३२ ॥
दोषैरेतैः 'क्रोधादयः' इत्यादिना पूर्वोक्तैः वियुक्तं तु गुणै-
रेतैः ज्ञानादिभिश्च समन्वितं यन् एतत्समृद्धमत्यर्थं तपो भव-
ति केवलम् ॥
 
किं बहुना-
यन्मां पृच्छसि राजेन्द्र संक्षेपात्तद्रवीमि ते ।
तत्पापहरं शुद्धं जन्ममृत्युजरापहम् ॥ ३३ ॥
 
17