This page has been fully proofread once and needs a second look.

एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥
 
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥
 
शाठ्येनापि नमस्कारः प्रयुक्तश्चक्रपाणये ।
संसारमूलबन्धानामुद्वेजनकरो हि सः ॥
 
इत्यादिश्रुतिस्मृतीतिहासपुराणवचनेभ्यः ।
 
मङ्गलानां च मङ्गलं मङ्गलं सुखं तत्साधनं तज्ज्ञापकं
च, तेषामपि परमानन्दलक्षणं परं मङ्गलमिति मङ्गलानां
च मङ्गलम् । दैवतं देवतानां च देवानां देवः, द्योतनादिभिः
समुत्कर्षेण वर्तमानत्वात् । भूतानां यः अव्यय: व्यय-
रहित: पिता जनकः यो देवः, सः एकं दैवतं लोके इति
वाक्यार्थः ॥
 
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवास:
साक्षी चेता केवलो निर्गुणश्च ॥
 
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।