This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
वा " इत्यादि । वैराग्यं दृष्टानुश्रविकविषयवितृष्णता । अस्ते-
यः अचौर्यमात्मनो द्रव्यस्य वा । आत्मचौर्यमुक्तम-'यो
ऽन्यथा सन्तमात्मानम्' इति । ब्रह्मचर्यम अष्टमैथुनत्यागः ।
तथा चोक्तम्– 'स्मरणं कीर्तनं केलिवक्षणं गुह्यभाषणम् ।
संकल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ॥ एतन्मैथुनम
टाङ्गं प्रवदन्ति मनीपिणः । विपरीतं ब्रह्मचर्यमेतदेवाटल-
क्षणम्' इति । असंग्रहः अपरिग्रह पुत्रदारक्षेत्रादीनाम् ।
एतान्परिपालयेत् ॥
 
दोषान् विवर्जयेदित्याह-
एवं दोषा दमस्योक्तास्तान्दोषान्परिवर्जयेत् ।
दोषत्यागेऽप्रमादः स्यात्स चाप्यष्टगुणो मतः ॥
दमोऽष्टादशदोप: स्यादिति ये होपा उक्ताः, तान् दोषान
परिवर्जयेत् । कस्मादित्याह- तेषु दोपेषु व्यक्तेषु प्रमादी न
भवेदित्यर्थः । सोऽपि अप्रमाद: अष्टगुणो मत: ; "सत्यं
ध्यानम्' इत्यादिना पूर्वमेवोद्दिष्टुत्वादित्यर्थः ॥
 
इदानीं सत्यस्तुतिः क्रियते -
 
सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः ।
तांस्तु सत्यमुग्वानाहुः सत्ये ह्यमतमाहितम् ॥