This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
२५५
 
अर्हते योग्याय याचमानाय पुत्रान् वित्तं ददाति इति
यत् तदेतत्त्यागद्वयं पण्णां मध्ये प्रथमम् । इष्टापूर्त द्वितीयं
स्यात् इष्टं श्रौते कर्मणि यद्दानम् । पूर्त स्मार्तकर्मणि । इष्टं
देवेभ्यो दत्तम्, पूर्त पितृभ्य इति केचित् । नित्यं वैराग्ययो-
गत: विशुद्धसत्त्वखानित्यत्वादिदोषदर्शिनः ततो विरक्ततया
धनादिपरित्यागः कामत्यागश्च राजेन्द्र, स तृतीय इति स्मृतः ।
किमेतैर्भवतीत्यत आह — अप्रमादीति । अप्रमादिनां कामो न-
श्यति । उक्तं राजधर्मेषु - अपध्यानमलो धर्मो मलोऽर्थस्य
निगूहनम् । अप्रमादमल: कामो भूयः स गुणवर्धनः' । य एतैः
षड्भिः समन्वितः त्यागैः, सः अप्रमादी भवेत् । सः अप्रमा-
दः अष्टगुणः अष्टभिर्गुणैः समन्वितो भवति ॥
 
के ते? तान् दर्शयति-
सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च ।
अस्तेयो ब्रह्मचर्य च तथासंग्रह एव च ॥ २८ ॥
 
सत्यं यथार्थसंभाषणम् । ध्यानं चेतसः कस्मिंश्चिच्छुभा-
श्रये मण्डलपुरुषादौ तैलधारावत्संतत्यवच्छेदिनी प्रवृत्तिः । स-
माधानं प्रणवेन विश्वायुपसंहारं कृत्वा स्वाभाविकचित्सदान-
न्दाद्वितीयब्रह्मात्मनावस्थानम् । चोद्यम् 'कोऽहं कस्य कुतो