2022-09-09 02:55:19 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
२५३
मन्यतमे कृते दमस्य प्रतिकूलं कृतं भवेत् । के ते? अनृतम्
अयथार्थवचनम् । पैशुनं परदूषणवचनम् । तृष्णा विषयेप्सा ।
प्रातिकूल्यं सर्वेषां प्रतिकूलता । तमः अज्ञानम् । अरतिः
अयथालाभसंतुष्टि: । अर्थवा, रतिः स्त्रीभोगेष्वभिरतिः ।
लोकद्वेष: लोकानामुद्वेगाचरणम् । अभिमानः सर्वेषामप्रण-
तिभावः । विवादः जनकलहाचरणम् । प्राणिपीडनं स्वदेहपू-
रणाय प्राणिहिंसनम् । परिवाद: समक्षे परदूषणाभिधानम् ।
अतिवादः निरर्थकोऽतिप्रलाप: । परितापः वृथादुःखचिन्त-
नम् । अक्षमा द्वन्द्वासहिष्णुता । अधृतिः इन्द्रियार्थेषु चप-
लता । असिद्धि धर्मज्ञानवैराग्याणाम् । पापकृत्यं प्रतिषि
द्धाचरणम् । हिंसा अविहितहिंसा । इति इत्थं दमदोषा:
प्रकीर्तिताः । एतैः अनृतादिभिः दोषैः विमुक्तो यो गुणः सः
दम इति उच्यते सद्भिः ॥
।
इदानीं मददोषानाह
मदोऽष्टादशदोषः स्यात्यागो भवति षड्डिधः ।
विपर्ययाः स्मृता एते दमदोषा उदाहृताः ॥
मदोऽष्टादशदोष: स्यात् त्यागश्च षड्डिधो भवति । विप-
र्ययाः स्मृता एते अनृतादिहिंसान्ताः ये दमदोषत्वेन स्मृताः,