This page has not been fully proofread.

२५२
 
सनत्सुजातीयभाप्ये
 
त्रिभिर्द्वान्यामेकतो याति
क्रमाद्विशिष्टा मौनभूता भवन्ति ॥ २० ॥
 
यस्तु एतेभ्य: पूर्वोक्तेभ्यः अग्रवसेत् प्रवासं न करोति तैरेव
समन्वितो भवेत्, स सर्वामिमां पृथिवीं प्रशिव्यात् प्रशास्ति
आत्मवश्यां करोति । य एतेषां मध्ये त्रिभिर्द्वाभ्याम् एकतः
एकस्मात् वा अविमुक्ताः, एतेषामन्यतमेनापि समन्वितास्ते एते
क्रमेण विशिष्टा ज्ञानिनो भृत्वा मौनभूताः ब्रह्मभूता भवन्ति ॥
इदानीं दमदोपानाह लोकत्रयेण -
 
दमोऽष्टादशदोषः खात्प्रतिकूलं कृते भवेत् ।
अनृतं पैशुनं तृष्णा प्रातिकूल्यं नमोऽरतिः ॥
लोकद्वेषोऽभिमानश्च विवादः प्राणिपीडनम् ।
परिवादोऽतिवादश्च परितापोऽक्षमा धृतिः ॥
असिद्धिः पापकृत्यं च हिंसा चेति प्रकीर्तिताः ।
एतैदोषैर्विमुक्तो यः स दमः सद्भिरुच्यते ॥
 
दमः अष्टादशदोप: स्यात् अष्टादशदोपसमन्वितो भवति ।
किमेतेषां दोपत्वमिति चेत् - प्रतिकूलं कृते भवेत् एतेषा-