This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
इदानीं ज्ञानादयो द्वादश गुणा उच्यन्ते -
ज्ञानं च सत्यं च दमः श्रुतं च
 
२५१
 
अमात्सर्य हीस्तितिक्षानन्या ।
 
यज्ञश्च दानं च धृतिः शमश्च
 
महाव्रता द्वादश ब्राह्मणस्य ॥ १९ ॥
ज्ञानं तत्त्वार्थसंवेदनम् । सत्यं यथार्थसंभाषणं भूतहितं च ।
दमो मनसो दमनम् । श्रुतम् अध्यात्मशास्त्रश्रवणम् । मात्सर्य
सर्वभूतेष्वसहमानता, तद्भावः अमात्सर्यम् । ह्री: अकार्य-
करणे लज्जा । तितिक्षा द्वन्द्वसहिष्णुता । अनसूया परदोषाना-
विष्करणम् । यज्ञ: अग्निष्टोमादिः, महायज्ञश्च । दानं ब्राह्म-
णेभ्यो धनादिपरित्यागः । धृतिः विषयसंनिधावपि इन्द्रियनि-
ग्रहः । शमः अन्तःकरणोपरतिः, बहिःकरणोपरतिरिति
केचित् । एते ज्ञानादयो महाव्रताः परपुरुषार्थसाधनभूताः
 
ब्राह्मणस्य ॥
 
ये 'ज्ञानादयो द्वादश चातताना: ' इति पूर्वव प्रस्तुताः, ते
वर्णिताः । इदानीं गुणस्तुतिं करोति -
यस्त्वेनेभ्योऽप्रवसेद्वादशभ्यः
 
सर्वामिमां पृथिवीं स प्रशिष्यात् ।