This page has not been fully proofread.

२५०
 
सनत्सुजातीयभाष्ये
 
दोषो विनाशकारणम् । यस्मादेवं तस्मात्सदा वर्ज्या इत्यर्थः ।
उक्तं च हैरण्यगर्भे— 'यथा पान्थस्य कान्तारे सिंहव्याघ्र-
मृगादयः। उपद्रवकरास्तद्वत्क्रोधाद्या दुर्गुणा नृणाम्' इति ॥
इदानीं नृशंससप्तकमाह -
 
संभोगसंविद्विषमेधमानो
दत्तानुतापी कृपणोऽवलीयान् ।
वर्गप्रशंसी वनितां च द्वेष्टा
 
एते परे सत नृशंसरूपाः ॥ १८ ॥
 
संभोगे विषयसंभोगे संविर्यस्य वर्तते स संभोगसंवित्
विषमेधमानः विषमिव परेषामुपद्रवं कृत्वा एधमानः वर्धमानः ;
अथवा, द्विषमेधमान इति पाठान्तरम् ; द्विषं द्वेष्यं कर्म कृत्वा
प्राणिनां तारेणैव वर्धमानः । दत्तानुतापी यः पूर्व धर्मबुद्धया
धनादिकं दत्त्वा पश्चात् किमर्थमहं दत्तवानिति तप्तो भवति स
दत्तानुतापी । कृपणः यत्किचिदर्थलवलाभमात्रलोभात्सर्वात्र-
मानं सहते यः, स कृपणः । अवलीयान् ज्ञानबलवर्जितः । वर्ग-
प्रशंसी इन्द्रियवर्गप्रशंसी । वनितां च द्वेष्टा अनन्यशरणां
भार्यौ यो द्वेष्टि सः । एते परे पूर्वोक्तेभ्य: क्रोधादिभ्यः सप्त
नृशंसरूपाः ॥