This page has not been fully proofread.

द्वितीयोऽध्याय ।
 
२४९
 
गुणानपह्नोतुमिच्छा वीभत्सा वा । एते क्रोधाढ्यो दोषाः तपसः
कल्मपरूपाः सदा वर्ज्या: महागुणेन ब्राह्मगेन । ब्राह्मणाना-
मुत्कृष्टगुणयोगः स्वभावसिद्धः । तथा चोक्तं भगवता – 'शमो
दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं
ब्राह्मं कर्म स्वभावजम्' इति । अथवा, महागुणो ब्रह्मप्रा-
त्रिगुण: तेन ब्रह्मप्राप्तिलक्षणेन महागुणेन समन्वितेन सदा
वर्जनीया इत्यर्थः । उक्तं च नाममहोदधौ– 'महान्ब्रह्मेति
च प्रोक्तो महत्स्वान्मह्तामपि । तत्प्राप्तिगुणसंयुक्तो महागुण
इति स्मृतः ' इति ॥
 
,
 
तेषां सदा वर्ज्यत्वे हेतुमाह -
एकैकलेते राजेन्द्र मनुष्यं पर्युपासते ।
लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ॥
 
यथा मृगाणाम् अन्तरं छिद्रं लिप्समानो रन्ध्रान्वेषणपरो
लुब्धको मृगयुरनुवर्तते, यथा च तच्छिद्रं लब्ध्वा तान् हन्ति;
तथा तेषां मनुष्याणां रन्ध्रान्वेषणपरा एते क्रोधादयः ए-
कैकं मनुष्यं पर्युपासते । अथवा, मनुष्यान् पर्युपासते इति
पाठः, तस्मिन् एकैकं पृथक् पृथक् मनुष्यान पर्युपासते इति
योजना । तथा च्छिद्रं लब्ध्वा तान् नन्ति । तस्मादेतेष्वेकोऽपि