2022-09-09 02:55:18 by ambuda-bot
This page has not been fully proofread.
सनत्सुजातीयभाप्ये
क्रोधाइयो द्वादश यस्य तपसो दोपाः तथा नृशंसानि च
सत हे राजन, यस्य तपसो दोषा:; तथा ज्ञानादयो द्वादश
च आततानाः विस्तीर्यमाणाः शास्त्रे वेदशास्त्रे ये विदिता गु-
णाः द्विजानां तानेतान् गुणान् दोषांश्च वक्ष्यामीत्यभिप्रायः ॥
क्रोधादीन दर्शयति -
क्रोधः कामो लोभमोहौ विवित्सा
कृपास्या मानशोकौ स्पृहा च ।
ईर्ष्या जुगुप्सा च महागुणेन
सदा वर्ज्या द्वादशैते नरेण ॥ १६ ॥
२४८
क्रोधो नाम कामप्रतिघातादुत्पद्यमानः ताडनाक्रोशनादि-
हेतुः कामहानिहेतुकश्च अन्तःकरणविक्षेपो गात्रस्वेदकम्पना-
दिलिङ्गः । कामः स्त्र्याद्यमिलाप: । लोभः परद्रव्येच्छा, आ-
र्जितस्य द्रव्यस्य तीर्थे विनियोगासामर्थ्य च । मोहः कृत्याकृ-
त्यविवेकशून्यता । विवित्सा विषयरसान्बेत्तुमिच्छा अकृपा
निष्ठुरता असूया गुणेषु दोषाविष्करणम्, परगुणादिष्वक्षमा
वा । मानः आत्मबहुमानित्वम्। शोकः इष्टार्थवियोगजोऽन्तः-
करणविक्षेपः रोदनचिन्तनादिलिङ्गोऽप्रतीकारविषयः । स्पृहा
विषयभोगेच्छा । ईर्ष्या परश्रियामसहिष्णुता । जुगुप्सा पर-