This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
न भवति सकल्मषं स्यात् तदा समृद्धमत्यर्थं च न भवति ॥
एतदेव प्रशंसति -
 
२४७
 
तपोमूलमिदं सर्व यन्मां पृच्छसि क्षत्रिय ।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ १३ ॥
स्पष्टार्थः श्लोकः ॥
श्रुत्वैवमाह राजा -
 
धृतराष्ट्र उवाच-
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः ।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥
 
'निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते' इति श्रुतस्य
तपसः कल्मषं ब्रूहि हे सनत्सुजात, येन निष्कल्मषेण तपसा
इदं ब्रह्म गुह्यं सनातनं विद्याम् ॥
एवं पृष्टः प्राह भगवान् -
सनत्सुजात उवाच-
क्रोधादयो द्वादश यस्य दोषा-
स्तथा नृशंसानि च सप्त राजन् ।
 
ज्ञानादयो द्वादश चानतानाः
 
शास्त्रे गुणा ये विदिता द्विजानाम् ॥