2022-08-25 13:49:21 by epicfaace
This page has been fully proofread once and needs a second look.
सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैः कृतम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥
एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ।
दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ॥
जनार्दनं भूतपतिं जगद्गुरुं
स्मरन्मनुष्यः सततं महामुने ।
दुःखानि सर्वाण्यपहन्ति साधय-
त्यशेषकार्याणि च यान्यभीप्सते ॥
एवमेकाग्रचित्तः सन्संस्मरन्मधुसूदनम् ।
जन्ममृत्युजराग्राहं संसाराब्धिं तरिष्यति ॥
कलावत्रापि दोषाढ्ये विषयासक्तमानसः ।
कृत्वापि सकलं पापं गोविन्दं संस्मरञ्शुचिः ॥
वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥
लोकत्रयाधिपतिमप्रतिमप्रभाव-
मीषत्प्रणम्य शिरसा प्रभविष्णुमीशम् ।
जन्मान्तरप्रलयकल्पसहस्रजात-
माशु प्रणाशमुपयाति नरस्य पापम् ॥