This page has not been fully proofread.

२४६
 
सनत्सुजातीयभाप्ये
 
करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति ।
अन्येषाम् अनात्मविदां वैषयिकाणां तावदेव तत् न समृद्धं
भवति ; यस्य कर्मणो यत्फलं श्रुतं तावन्मात्रफलसाधनं न
फलसमृद्धिहेतुर्भवतीत्यर्थः ॥
श्रुत्वैवमाह धृतराष्ट्र:-
धृतराष्ट्र उवाच-
कथं समृद्धमत्यर्थ तपो भवति केवलम् ।
सनत्सुजात तहि कथं विद्यामहं प्रभो ॥
ऋज्वेतत् ॥
 
एवं पृष्टः प्राह भगवान-
सनत्सुजात उवाच-
निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते ।
एतत्समृद्धमत्यर्थ तपो भवति नान्यथा ॥ १२ ॥
यदेतन्निष्कल्मषं तपः, तत्केवलं परिचक्षते केवलं बीजमित्यु-
क्तम् । सर्वस्यास्य प्रपञ्चस्य वीजं निमित्तं यत्, तत्केवलमित्युक्त-
म् । आहोशना — 'गुणसाम्ये स्थितं तत्त्वं केवलं त्विति कथ्य-
ते । केवलादेतदुद्भूतं जगत्सद्सदात्मकम्' इति । तत् एतत् एव
केवलं तपः समृद्धमत्यर्थं च भवति नान्यथा यदा निष्कल्मषं