This page has not been fully proofread.

द्वितीयोऽध्याय ।
 
कर्मजन्यापूर्वसंयुक्तो भवति । तेन पुण्येन पापं विनिहत्य
क्षपयित्वा पश्चात् उत्तरकालं अपिताशेषकल्मपो जायते ज्ञान-
विदीपितात्मा ज्ञानप्रकाशित चित्सदानन्दाद्वितीय ब्रह्मस्वरूपो
भवति । ज्ञानेन चात्मानं परमात्मानम् उपैति प्राप्नोति वि-
द्वान् आत्मवित् । अन्यथा पुनरीश्वरार्थ कर्माननुष्ठानेनाक्षपि-
ताशेषकल्मषो न ज्ञानी भवति । तदा वर्गफलानुकाङ्क्षी
इन्द्रियफलानुकाङ्क्षी स्वर्गादिफलानुकाङ्क्षी सन् अस्मिन्
लोके कृतं तत् यज्ञादिकं परिगृह्य सर्वम् अमुत्र परलोके तत्फ-
लमुपभुङ्क्ते । ततः कर्मशेषेण पुनरेति मार्ग संसारमार्गम् ।
तथा च श्रुतिः - 'तस्मिन्यावत्संपातमुषित्वाथैत मेवाध्वानं पु-
नर्निवर्तन्ते ॥
 
२४५
 
इदानीं विद्वदविद्वदपेक्षया कर्मणां फलवैषम्यमाह-
अल्लोके तपस्तसं फलमन्यत्र भुज्यते ।
ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् ॥
 
अस्मिन् लोके यत् तपस्तप्तं तस्य फलम् अन्यत्र अमुष्मिन्
लोके भुज्यते इति सर्वेषां समानम् । ब्राह्मणानां ब्रह्मविदां
पुनरयं विशेष:- तपः
स्वृद्धम् अतीव समृद्धं भवति
 
फलवृद्धि हेतुर्भवतीत्यर्थः । तथा च श्रुतिः– 'यदेव विद्यया