This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
,
 
मनसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ तच्च विष्णोः परं
रूपम॑रूपाख्यमनुत्तमम् । तद्विश्वरूपवैरूप्यलक्षणं परमात्मनः
इति । इदानीम् ईश्वरार्थमनुष्टीयमानानां तत्प्राप्तिसाधनज्ञाना-
पेक्षितशुद्धिद्वारेण पारम्पर्येण पुरुषार्थत्वम्, अन्येषां संसारा-
नर्थहेतुत्वेनापुरुपार्थत्वं च दर्शयति लोकद्वयेन -
तदर्थमुक्तं तप एतदिज्या
 
२४४
 
ताभ्यामसौ पुण्यमुपैति विद्वान् ।
पुण्येन पापं विनिहत्य पश्चा-
त्स जायते ज्ञानविदीपितात्मा ॥
 
ज्ञानेन चात्मानमुपैति विद्वा-
न चान्यथा वर्गफलानुकाङ्क्षी ।
अस्मिन्कृतं तत्परिगृह्य सर्व-
समुत्र भुङ्क्ते पुनरेति मार्गम् ॥ ९ ॥
 
यद्विश्वरूपविपरीतरूपं ब्रह्म तदर्थमुक्तं वेदेन । किम् ?
तपः कृच्छ्रचान्द्रायणादि, इज्या ज्यातिष्टोमादि । किं ततो
भवतीति चेत् - ताभ्याम् इज्यातपोभ्याम् असौ विद्वान् पूर्वो-
तविनियोगज्ञः ईश्वरार्थ कर्मानुतिष्ठन् पुण्यम् उपति प्राप्नोति