This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
"
 
तस्यैव परमात्मनो मायापरिकल्पितैः नामादिविशेषरूपैः
इदं जगद्भाति हे महानुभाव । कथमेतदवगम्यते तस्यैव नामा-
दिविशेषरूपैरिदं जगद्भातीति ? 'इन्द्रो मायाभिः पुरुरूप
ईयते' इति मायानिर्मितं बहुरूपं निर्दिश्य तस्यैव सम्यग्रूपम्
'तदेतद्ब्रह्मापूर्वमनपरमनन्तरमवाह्यमयमात्मा ब्रह्म सर्वानुभूरि-
त्यनुशासनम्' इति प्रवदन्ति वेदाः । तथा च -
• द्वे वाव
ब्रह्मणो रूपे मूर्त चैवामूर्त च' इत्यादिना तस्यैव मूर्तामूर्ता-
त्मकमात्मवज्जगत्स्वरूपं निर्दिश्य तस्य सम्यग्रूपम् 'नेति नेति'
इत्यादिना प्रवदन्ति वेदाः । तथा — आत्मन आकाश:
संभूत : ' इति वियदादिधरित्र्यन्तं तस्यैव कार्य निर्दिश्य
कोशोपन्यासमुखेन तस्यैव सम्यग्रूपम्, 'यतो वाचो निव-
र्तन्ते, अप्राप्य मनसा सह' इत्यादिना प्रवदन्ति वेदाः ।
'अधीहि भगव इति होपससाद' इत्यादिना नामादिप्राणान्तं
तस्यैव मायानिमित्तं जगन्निर्दिश्य 'यत्र नान्यत्पश्यति
नान्यच्छृणोति नान्यद्विजानाति स भूमा' इत्यादिना तस्यैव
सम्यग्रूपं भूमानं तमसः पारं स्वे महिम्नि व्यवस्थितं प्रवदन्ति
वेदाः । न केवलं वेदाः प्रवदन्ति, अपि तु मुनयोऽपि तत् ब्रह्म
विश्ववैरूप्यं विश्वरूपविपरीतरूपम् उदाहरन्ति । तथा चाह
भगवान्पराशरः- ' प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
 
6
 
२४३