This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
तनः चिरंतन इत्यर्थः । संसारानर्थहेतुत्वेन वेदाध्ययनतदर्थ-
विदरतद्नुष्ठानानि न कर्तव्यानीत्यर्थः ॥
 
भवेदयं प्रलापः यद्येष एव वेदार्थ: स्यात्, अन्य एव
म्वर्गादेः परमपुरुपार्थो मोक्षाख्यो वेदार्थः; इतरस्य च कर्म-
गोपासनायाश्च तत्यामसाधनज्ञानसाधनान्तःकरणशुद्धि-
पारम्पर्येण पुरुषार्थत्वादेव वेदप्रतिपाद्यत्वम् ।
तथाहि - तमेव परमात्मानं परमपुरुपार्थ दर्शयति वेदः --
 
6
 
'अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस्ते त्या-
भिगच्छन्ति अविद्वांसोऽबुधा जनाः इति । स्वर्गादिलोका-
नामपुरुषार्थत्वमनानन्दात्मकत्वमविद्यावद्विपयत्वेन दर्शयित्वा
 
२४१
 
'आत्मानं चेद्विजानीयायमस्मीति पूरुपः । किमिच्छ-
न्कस्य कामाय शरीरमनुसंज्वरेत्' इत्यात्मविद कृतकृयतां
दर्शयित्वा – 'इहैव सन्तोऽथ विद्मस्तद्वयं न चेदिहावेदी -
न्महती विनष्टिः । य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमे-
वापियन्ति' इत्यात्मविदोऽमृतत्वप्राप्तिमनात्मविदः आत्मवि-
नाशमनर्थप्राप्तिं च दर्शयित्वा – 'यदैतमनुपश्यत्यात्मानं देव-
मञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते' इत्यादि-
भिर्वाक्यैस्तत्स्वरूपतदर्थदर्शनतत्फलानि भूयो भूयो दर्शयित्वा
कथमेनं मकरादिभिरिव रागादिभिरितस्तत: समाकृष्यमाणं
 
S M. B 16