This page has not been fully proofread.

२४०
 
सनत्सुजातीयभाष्ये
 
न च्छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया वर्तमानम् ।
नीडं शकुन्ता इव जातपक्षा-
इछन्दांस्येनं प्रजहन्त्यन्तकाले ॥ ५ ॥
 
न च्छन्दांस्येनं वृजिनात् अधर्मात् नास्तिकं पापकारिणम
अधीतवेदम् अधीतवेदार्थ मायाक्निं धर्मध्वजिनं मायया वर्त
मानं मिथ्याचारिणं तारयन्ति न रक्षन्ति । कि करिष्यन्तीति
चेन्– यथा शकुन्ताः पक्षिण: जातपक्षा: नीडं स्वाश्रयं परि-
यजन्ति, एवं छन्दांसि अन्तकाले मरणकाले एनं स्वाश्रयभूतं
प्रजहन्ति परित्यजन्ति, न पुरुषार्थाय भवन्तीत्यर्थः ॥
एवमुक्ते प्राह धृतराष्ट्र:-
धृतराष्ट्र उवाच-
न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण ।
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥
 
'कर्मोदये' इत्यादिना नित्यानां काम्यानां च पितृलोका-
दिप्राप्तिहेतुत्वेन संसारानर्थहेतुत्वस्य दर्शितत्वात् प्रतिषिद्धस्य
कर्मणः नरकहेतुत्वेनानर्थहेतुत्वस्य दर्शितत्वात् न वेदा वेद-
विदं लातुं शक्ताश्चेत्, अथ कस्मात् हेतोः अयं प्रलापः सना-