This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
क्षीणदोषाः' इति । तथा च भगवान -
 
ज्ज्योतिस्तमसः परमुच्यते' इति ॥
 
इदानीं वेदस्वभावपरिज्ञानाय प्राह धृतराष्ट्र:-
धृतराष्ट्र उवाच-
ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः ।
पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ॥
 
२३९
 
ज्योतिषामपि त-
यः पापानि कुर्वन ऋगादिवेदम् अधीते स तेन वेदाध्यय-
नेन पूयते न वा ? एतद्वक्तुमर्हसीत्यभिप्रायः ॥
एवं पृष्टः प्राह भगवान् -
 
सनत्सुजात उवाच -
 
नैनं सामान्यचो वापि यजूंषि च विचक्षण ।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥
 
यः पापानि कुर्वन ऋगादिवेदमधीते, नैनं प्रतिषिद्धचारि-
णम् ऋगादयो वेदाः पापात् कर्मणः त्रायन्ते नरक्षन्ति । न
ते मिथ्या ब्रवीम्यहम् एवमेवैतत्, नात्राविश्वासः कर्तव्य
इत्यर्थः ॥
 
किं कुर्वन्तीति चेत् तत्राह-
2