This page has not been fully proofread.

२३८
 
सनत्सुजातीयभाप्ये
 
यतो न वेदा मनसा सह्रैन-
मनुप्रविश्यन्ति ततोऽथ मौनम् ।
यत्रोत्थितो वेदशब्दस्तथायं
 
स तन्मयत्वेन विभाति राजन् ॥ २ ॥
 
यतः यस्मात् वेदा मनसा सह एनं परमात्मानं नानुप्रवि-
श्यन्ति । तथा च श्रुतिः– 'यतो वाचो निवर्तन्ते, अप्राप्य
मनसा सह ' इति । ततः तस्मादेव कारणात् स एव वाचा-
मगोचरः परमात्मा मौनम् । यद्येवं किंलक्षणस्तर्हि परमात्मा ?
तत्राह — यत्रोत्थितो वेदशब्दः यस्मिन् अर्थे निमित्तभूते समु
त्थितो वेदशब्दः शास्त्रादिकारणं ब्रह्मेत्यर्थः । अथवा, यस्मिन्
संवेदनाख्ये उत्थितो वाचकत्वेन प्रयुक्तो वेदशब्द इत्यर्थः ।
तथा वेदशब्दप्रतिपाद्यः संविद्रूपः अयं परमात्मा । यदि वा-
चामगोचरः : परमात्मा, कथमेतदवगम्यते संविद्रूपः परमा-
त्मेति ? तत्राह —स परमात्मा तन्मयत्वेन ज्योतिर्मयत्वेनास्माकं
विभाति राजन् । एवमेवास्माकमनुभवः नात्राविश्वासः क-
र्तव्य इत्यर्थः । अथवा, श्रुतिस्मृतीतिहासपुराणादिषु ज्योति-
र्मयत्वेन प्रतीयते । तथा च श्रुतिः— 'तं देवा ज्योतिषां ज्यो-
' 'अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः
 
तिः'