This page has not been fully proofread.


 
द्वितीयोऽध्यायः ॥
 
*
 
यं मानस्य' इत्यादिना मौनमाहात्म्यं प्रदर्शित
 
श्रुत्वा प्राह धृतराष्ट्र:-
धृतराष्ट्र उवाच-
कस्यैष मौनः कतरन्नु मौनं
प्रब्रूहि विद्वन्निह मौन भावम् ।
मौनेन विद्वानुपयानि मौन
कथं मुने मौनमिहाचरन्ति ॥ १ ॥
 
कस्य कीदृशस्य एषः पुर्वोक्तो वागायुपरतिलक्षणो मौन.
भवति ! कतरन्नु एतयोरसंभाषणात्मस्वरूपयोः मौनं प्रब्रूहि
हे विद्वन, इह मौनभावं मौनस्य स्वभावं मौनेन तूष्णींभावन
विद्वानुपयाति मौनं ब्रह्म आहोस्विदन्येन कथं मुने मौन-
मिहाचरन्ति ॥
 
2
 
एवं पृष्टः प्राह भगवान -
सनत्सुजात उवाच-