This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
द्वाराणि सम्यक्प्रवदन्ति सन्तो
बहुप्रकाराणि दुराचराणि ।
हीर्दमशौचविद्याः
 
सत्यार्जवे
 
षण्मानमोहप्रतिबन्धकानि ॥ ४३ ॥
 
इति श्रीमत्सनत्सुजातीये प्रथमोऽध्यायः ॥
 
द्वाराणि ब्रह्मलक्ष्मीप्रवेशद्वाराणि सम्यक्प्रवदन्ति सन्तः
बहुप्रकाराणि दुराचराणि दुःखाचरणानि । कानि तानि ?
सत्यार्जवे सत्यं यथार्थसंभाषणं भूतहितं च । आर्जवम् अकौ-
टिल्यम् । हीः अकार्यकरणे लज्जा । दमशौचविद्याः दम: अ-
न्तःकरणोपरतिः । बहिःकरणोपरतिरिति केचित् । शौचं
कल्मषप्रक्षालनम् । विद्या ब्रह्मविद्या । षट् एतानि मानमोह-
प्रतिबन्धकानि ॥
 
इति सनत्सुजातीयभाष्ये प्रथमोऽध्यायः ॥
 
२३४