This page has not been fully proofread.

प्रथमाऽध्यायः ।
 
इदानीं मानार्थसंवासे अपवर्गाभावं दर्शयति -
श्रीहि मानार्थसंवासा-
त्सा चापि परिपन्थिनी ।
ब्राह्मी सुदुर्लभा श्रीह
 
प्रज्ञाहीनेन क्षत्रिय ॥ ४२ ॥
 
२३३
 
हे क्षत्रिय, मानार्थसंवासान मानविषयसंवासान मानगो-
चरप्रपञ्चे परिवर्तमानस्य स्वर्गपश्चन्नाद्यादिसाधनभूतं कर्मा-
नुतिष्ठतो विषयविषान्धस्य श्रीर्हि भवति । सा चापि श्रीः
परिपन्थिनी श्रेयोमार्गविरोधिनी । तथा च मोक्षधर्मे—
'निवन्धिनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्त्वैनां
सुकृतो यान्ति नैनं छिन्दन्ति दुष्कृतः इति । य एवं श्रिया -
भिभूतो मूढः सन्विषयेषु प्रवर्तते, तेन प्रज्ञाहीनेन विद्याहीनेन
ब्राह्मी ब्रह्मानन्दलक्षणा श्रीः सुदुर्लभा । तथा च हैरण्य-
गर्भे– 'या नित्या चिद्धनानन्दा गुणरूपविवर्जिता । आन-
न्दाख्या परा शुद्धा ब्राह्मी श्रीरिति कथ्यते' इति । सा
च सुदुर्लभा श्रवणायापि न शक्या । तथा च श्रुतिः ` श्रव-
णायापि बहुभिर्यो न लभ्यः' इति ॥
 
इदानीं ब्रह्मलक्ष्मीप्रवेशद्वाराणि दर्शयति-