This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
यदिदं विद्वांसो ब्रह्मविदं मानयन्ति इति तत्तेषां निमेषो-
न्मेषवत् स्वभाववृत्तिः स्वाभाविकी प्रवृत्तिः इति मन्येत ।
तथा, अवमानितो जनैरवज्ञातो विद्वानेवं मन्येत – अधर्म-
विदुषो मूढाः विवेकहीना: लोकशास्त्रविवर्जिताः न मान्यं
माना है मानयिष्यन्ति मान्यमपि न मानयिष्यन्ति इत्येतदवि-
दुषां स्वभावः इति मन्येत अमानित: अपूजितो विद्वान ॥
इदानीं मानमौनयोभिन्नविषयत्वमाह
-
 
२३२
 

 
मानश्च मौनं च सहितौ वसतः सदा ।
अयं मानस्य विषयो ह्यसौ मौनस्य तद्विदुः ॥
वै मानश्च मौनं च सहितौ एकत्र वसतः ; सदा अयं
हि प्रत्यक्षादिगोचरो लोको लोक्यत इति प्रपञ्चो मानस्य
विषयः इत्यर्थः । असौ परलोको मौनस्य कोऽसौ तत् विदुः
तदिति ब्रह्मणो नाम । तथाह भगवान - ॐ तत्सदिति
निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति । तथा चानुगीतासु-
'ॐ तत्सद्विष्णवे चेति सायुज्यादिप्रदानि वै' इति । तच्छ-
व्वाच्यं ब्रह्म मौनस्य विषय इत्यर्थः । एतदुक्तं भवति -
मानात्संसारप्राप्तिः, मौनेन ब्रह्मप्राप्तिः इति । उक्तं च हैरण्य-
गर्भे– 'अन्नाङ्गनादिभोगेषु भावो मान इति स्मृतः । ब्रह्मा-
नन्दसुखप्राप्तिहेतुर्मौनमिति स्मृतः ' इति ॥
 

 
वै