This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
२३१
 
येन मन्त्रेण यजमानो द्विजोत्तमः' इति । तथा चाह भगवा-
न्मनुः – 'ब्रह्मविद्भ्यः परं भूतं न किंचिदिह विद्यते' इति ॥
पुनरपि तस्यैव समाचारमाह-
-
 
यमप्रयतमानं तु मानयति स मानितः ।
न मान्यमानो मन्येत नावाने विसंज्वरेत् ॥
 
यं ब्रह्मविदम् अप्रयतमानं तू भूतं सर्वोपसंहारं कृत्वा
स्वे महिनि व्यवस्थितं ब्रह्मचर्यादेः कृतसंन्यासिनं वेदान्त-
विज्ञानसुनिश्चितार्थ परमहंसपरिजकाचार्य गूढचारिणं
केचिद्विद्वांसः स्थितप्रज्ञलक्षणज्ञा: अविदिति मत्वा मान-
यन्ति पूज्यन्ति चेत्, सः तैः पूजितो विद्वान् न मान्यमानः
अहमिति न मन्येत । तथा स्थित उक्षणानामनभिज्ञाः जड
इति मत्वा अवमानं कुर्वन्ति इति तस्मिन् अवमाने
निमित्ते नानुसंजुरेत् नानुतपेत् ॥
 
."
 
कथं तर्हि मानितेनावमानितेन वान्तव्यमित्याह श्लोक-
द्वयेन-
लोकस्वभाववृत्तिर्हि निर्मवत्सदा ।
विद्वांसो मानयन्तीह इति मानितः ॥
येत
 
अधर्मविदुषो मूढा लोकवर्जिताः ।
न मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥