2022-09-09 02:55:16 by ambuda-bot
This page has not been fully proofread.
२३०
सनत्सुजातीयभाष्ये
इदानीं योगिनं प्रशंसन्नाह -
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः ।
ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥
अनाढ्या अबहुमता असक्तात्मानः मानुषे वित्ते जायापुत्र-
वित्तादिषु आढ्या वेदेषु वेदप्रतिपाद्याहिंसासत्यास्तेयापरिग्रह-
ब्रह्मचर्यसमाधिसाधनेषु ये द्विजाः, ते दुर्धर्षा दुष्प्रकम्प्या
विद्यात्तान्ब्रह्मणः तनुं ब्रह्मस्वरूपभूतां विद्यात् इत्यर्थः ।
किंच ब्रह्मविन्महिमैषः -
सर्वान्विष्टकृतो देवान्विद्याद्य इह कश्चन ।
न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥
-
सर्वान् अग्न्यादीन स्विष्टकृतः सुष्ठ इष्टं कुर्वन्तीति । तथा
च श्रुतिः - 'स्विष्टं कुर्वन्स्विष्टकृत् ' इति । देवान् प्रत्येकमु -
द्दिश्य त्यागार्थं विद्यात् य इह् कश्चन सर्वदेवतायाज्यपि
ब्राह्मणस्य न समानः ब्राह्मणेन ब्रह्मविदा न समान इत्यर्थः ।
नैत्तदाश्चर्यम्, यस्मिन् देवताविशेषे हविष उद्देशत्यागेन
फलार्थ प्रयतते स्वयं यजमान: 'इममये इदमिन्द्राय' इति
सोऽपि हविष्प्रतियोगी देवताविशेषो न समानो ब्रह्मविदा,
किमु वक्तव्यं देवपशुर्यजमानो न समान इति । तथा च मोक्ष-
धर्मे–'ब्राह्मणस्य न सादृश्ये वर्तते सोऽपि किं पुनः । इज्यते