This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
शिष्टो न शिष्टवत्स स्या-
२२९
 
हाह्मणो ब्रह्मवित्कविः ॥ ३४ ॥
 
यः अनादाता अनात्मभृतदेहेन्द्रियतद्धर्मानात्मत्वेन, नोपाद -
त्ते, स पुरुषः अश्रान्तः स्यान् संसारश्रमयुक्तो न भवेन. अश-
नायादेदेहादिधर्मत्वात् । तथा च श्रुतिः– अशनायापि-
पासे प्राणस्य शोकमोहौ मनसो जरामरणे शरीरम्य' इति ।
देहद्वयाध्यासे हि तद्धर्माध्यासो भवति । एवमश्रान्ततया निक-
पद्रवः भवति । क्रोधहर्षलोभमोहाद्योऽन्तराया उपद्रवाः.
तद्धीनो निरुपद्रवः, स संमतः शिष्टत्वेन विद्वद्भिः संमतः
शिष्टवन्न स्यात् नाचरेत् जडवञ्चरेन ब्राह्मणो ब्रह्मवित्कविः ॥
इदानीमगूढचारिणं कुत्सयन्नाह —
 
ये यथा वान्तमश्नन्ति वाला नित्यमभूतये ।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपभोजनात् ॥
 
6
 
'मूढो बाल इति प्रोक्तः श्वा च वाल इति स्मृतः' इति
दर्शनात् यथा बाला : श्वानो वा मूढा वा वान्तम् उद्गीर्ण-
मनन्ति, एवं ये शिष्टा ब्रह्मविदः स्वमाहात्म्यं ख्यापयन्तः अगू-
ढचारिणो वर्तन्ते, ते वान्तम् उद्गीर्णम् अनन्ति स्ववीर्यस्योप-
भोजनात् । यदिदं वान्ताशनं तदिदम् अभूतये अनर्थायैवे-
त्यर्थः । तस्माद्रूढः सन्नशिष्टवदेव समाचरेदित्यर्थः ॥