This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
यस्त्वेवं मनुते स पापीयानित्याह-
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥
 
योऽन्यथा सन्तमात्मानं ज्ञानात्मना निर्लिङ्गममलं शुद्धं
सर्वद्वन्द्वविवर्जितं चित्सदानन्दाद्वितीयब्रह्मात्मना सन्तं स्वमा-
त्मानम्, अन्यथा देहवयतद्धर्मात्मतया 'कर्ता भोक्ता सुखी
दुःखी स्थूलोऽहं कृशोऽहं अमुष्य पुत्रोऽस्य नप्ता ब्राह्मणोऽहं
क्षत्रियोऽहम्' इत्येवमात्मना प्रतिपद्यते, किं तेन मूर्खेणानात्म-
विदा आत्मचोरेणात्मापहारिणा न कृतं पापम् । महापातकादि
सर्व तेनैव कृतमित्यर्थः । तथा च श्रुति: – 'असुर्या नाम ते
लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के
चात्महनो जनाः' इति । तथा चोक्तम् – 'ब्राह्मण्यं प्राप्य
लोकेऽस्मिन्न मूको बधिरो भवेत् । नापकामति संसारात्स
खलु ब्रह्मघातकः' इति । तस्माद्विषयभूतदेहेन्द्रियादिषु आ-
त्मभावं परित्यज्य अज्ञात एव वागाद्यगोचरे परमात्मनि नि-
कर्तव्येत्यर्थः ॥
 
अन्यथा देहेन्द्रियतद्धर्माननुपश्यतः किं भवतीत्यत आह -
 
२२८
 
अश्रान्तः स्याद्नादाता
 
संमतो निरुपद्रवः ।