This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
ब्रह्म' इति । यस्मादेवमज्ञात एव ब्रह्मणि निष्ठा कर्तव्या,
तस्मात् ज्ञातीनाम् 'क्रोधमानादयो दोषा विषयाश्चेन्द्रियाणि
च । एत एव समाख्याता ज्ञातयो देहिनस्तव ' इतीन्द्रियादीनां
ज्ञातिशव्देनोक्तत्वात् इन्द्रियादीनां मध्ये वसन पश्यन शृण्वन
स्पृशन् जिन् गच्छन् अनन् मन्यमानो विजानन्नपि नैव-
मात्मानं प्रमात्रादिरूपेण विन्देत प्रतिपद्येत. तत्साक्षित्वादा-
त्मनः । तथा च श्रुतिः - ' अथ यो वेदेदं जिघ्राणीति स
आत्मा' इति । देहवयतद्धर्मानात्मत्वेन न गृह्णीयादित्यर्थः ॥
कस्मात्पुनरेवं न गृह्यत इति, अत्राह-
को ह्येवमन्तरात्मानं ब्राह्मणो मन्तुमर्हति ।
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्व विवर्जितम् ॥
को हि निर्लिङ्गं स्थूलसूक्ष्मविवर्जितम् अचलं क्रियाकर्त्रादि-
शून्यं शुद्धम् अविद्यादोषरहितं सर्वद्वन्द्वविवर्जितम् अशनाया-
पिपासाशोकमोहजरामृत्युशीतोष्णसुखदुःखादिधर्मविवर्जितम्
अन्तरात्मानं सर्वान्तरं प्रमात्रादिसाक्षिणमात्मानं मानाविषय-
भूतं एवम् उक्तेन प्रकारेण देहद्वयतद्धर्मतया 'स्थूलोऽहं कृशोऽहं
गच्छामि पश्यामि मूको बधिरः काण: सुख्यहंं दुःख्यम्'
इति ब्राह्मणः सन् अर्हति मन्तुम् । तथा सति ब्राह्मणत्वमेव
हीयेतेत्यर्थः । वक्ष्यति च – 'य एव सत्यान्नापैति स ज्ञेयो
ब्राह्मणस्त्वया' इति ।