2022-09-09 02:55:15 by ambuda-bot
This page has not been fully proofread.
२२६
सनत्सुजातीयभाप्ये
—
।
4
मन्येत ब्राह्मण: ब्रह्मवित् । ज्ञातीनां पुत्रमित्रकलत्रादीनां
मध्ये संनिधौ वसन नैव विन्दत न प्रतिपद्येत किंचन किंचि-
दपि । कञ्चनेति केचित् । योगी नैव विन्देत पुत्रमित्रकलत्रा-
दिकं परित्यज्य केवलं स्वात्मनिष्ठो गृढ़चर्यो भवेदित्यर्थः । तथा
च श्रुतिः - 'कुटुम्बं पुतदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं
पवीतं च त्यक्त्वा गूढञ्चरन्मुनिः' इति । तथा चाह
भगवान्वसिष्ठः- 'यन्न सन्तं न चासन्तं नाश्रुतं न बहु-
श्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥ जानन्नपि
च मेधावी जडवल्लोक आचरेत् इति ॥ ईदृशस्यैव ज्ञान-
निष्ठाप्राप्तिलक्षणो मोक्षः नान्यस्थ, विक्षेपबाहुल्यादिति भावः ।
अथवा, 'नित्यमज्ञातचर्या मे अज्ञात चक्षुराद्यविषयभूते वाचा
मगोचरे अनुदितानस्तमितज्ञानात्मनावस्थिते अशनायाद्यसं-
स्पृष्टे पूर्णानन्दस्वरूपे सर्वान्तरे प्रत्याभूते ब्रह्मणि चर्या निष्ठा
समाधिलक्षणा मे मम कर्तव्या, न पराग्भूतदेहेन्द्रियपुत्रमि-
त्रकलत्रादौ स्थूलोऽहं कृशोऽहं गच्छामि तिष्ठामि क्लीब:
काण: मूको बधिरः अमुष्य पुत्रोऽस्य नप्ता ब्राह्मणोऽहं क्षति -
योऽहं भार्या मे पुत्रों में विभवो मे स्निग्धवन्धुसुहृदः इत्येव-
मात्मिका कर्तव्या इति मन्येत ब्राह्मणो ब्रह्मवित् । तथा च
श्रुतिः - 'यचक्षुषा न पश्यति येन चक्षूंषि पश्यति तदेव
-
'