This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
नस्य सर्वदा' इति । तथा चाह भगवान्पराशरः-
संमा-
नना परां हानिं योगः कुरुते यतः । जनेनावमतो योगी
योगसिद्धि च विन्दति इति ॥
 
कीदृशस्य तर्ह्यन्नं भोज्य मिति, अत्राह
-
 
b
 
२२५
 
यो वाकथयमानस्य ह्यात्मानं नानुसंज्वरेत् ।
ब्रह्मस्वं नोपहन्याद्वा तदन्नं संमतं सताम् ॥
 
यो वा अकथयमानस्य तूष्णी भूतस्य सर्वोपसंहारं कृत्वा
पूर्णानन्दात्मना अवस्थितस्य आत्मानं नानुसंज्वरेत् न ताप-
येत् ब्रह्मस्वं नोपहन्याद्वा ब्रह्मनिष्ठासाधनभूतं चेलाजिनकुश-
पुस्तकादिकं नोपहन्याद्वा । तथा चोक्तम्- 'रत्नहेमादिकं
नास्य योगिनः स्वं प्रचक्षते । कुशवल्कलचेलाद्यं ब्रह्मस्वं यो-
गिनो विदुः' इति । अन्यदपि ब्रह्मस्वं ब्राह्मणस्वं नोपहन्याद्वा
तदन्नं तस्यान्नं संमतं सतां भोज्यत्वेन ॥
 
पुनरपि तस्यैव समाचारमाह-
नित्यमज्ञातचर्या म इति मन्येत ब्राह्मणः ।
ज्ञातीनां तु वसन्मध्ये नैव विन्देत किंचन ॥
 
नित्यं नियमेन अज्ञातचर्या गूढचर्या मे मम कर्तव्येति
M. B 15