2022-09-09 02:55:15 by ambuda-bot
This page has not been fully proofread.
सनत्सुजातीयभाप्ये
नानुसंज्वरेत् संतप्तो न भवेत्, अन्यथा अन्नपानादिरहिते देशे
कथं नाम देहयात्रा सिध्येदिति संतप्तो भवेत् ; ततश्च न
योगसिद्धिः ॥
तत्राप्येवंविधजनसमीपे वास इत्याह-
२२४
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् ।
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥
यत्र यस्मिन्देशे अकथयमानस्य तूष्णींभूतस्य स्वमाहात्म्यं
प्रच्छादयतो येन केनचिदाच्छन्नस्य येन केनचिदाशितस्य
यत्र क्वचनशायिन आत्मानमेव लोकं पश्यतः जडमूकबाल-
पिशाचादिवत्संचरतः परमहंसपरिव्राजकाचार्यस्य प्रयच्छत्य-
शिवं भयम् अकल्याणमवमानादिकं प्रयच्छति । तथा अति-
रिक्तमिवाकुर्वन् यथा कश्चित् स्थितप्रज्ञलक्षणज्ञो ब्रह्मविदिति
ज्ञात्वा प्रणिपात नमस्कारादिपूर्वकमीश्वरबुद्धया पूजयति तद्वद-
ज्ञाततया अतिरिक्तं ब्राह्मणजातिमात्रप्रयुक्तपूजातिरिक्तं पूजा-
न्तरं ब्रह्मविदनुरूपमकुर्वन् अवमानादिकमेव कुर्वन् यो जनः,
सः अस्य विदुषः श्रेयान्, नेतरः यः प्रणिपातादिपूर्वकमीश्वर-
बुद्धया संपूजयति । तथा चाह भगवान्मनुः – 'संमानाद्ब्रा-
ह्मणो विद्वानुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमा-