2022-09-09 02:55:15 by ambuda-bot
This page has not been fully proofread.
प्रथमोऽध्यायः ।
इदानी ब्रह्मचर्यादेव सर्वाणि कर्माणि संन्यम्य वेदान्तश्रव-
गादिकं कृत्वा स्वे महिम्नि व्यवस्थितम्य परमहंस परिव्राजका-
चार्यस्य विदुषः समाचारमाह-
२२३
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः ।
नैनं मन्येत भूयिष्टं बाह्यमाभ्यन्तरं जनम् ॥
तस्य विरक्तस्य विदुषः सम्यक्समाचारमाहुर्वेदविदो जनाः
नैनं योगिनं मन्येत चिन्तयेत् भूयिष्ठं बहु बाह्यमाभ्यन्तरं
जनं पुत्रमित्रकलत्रादि आभ्यन्तरम. इतराह्यम् । यथा पुत्र-
मित्रादयो न गृह्णन्ति, तथा तेषामगोचर एव वर्तते इत्यर्थः ।
कीदृशे देशेऽस्य वास इत्याह -
यत्र मन्येत भूयिष्टं प्रावृषीव तृणोदकम् ।
अन्नपानं च ब्राह्मणस्तजीवेन्नानुसंज्वरेत् ॥
यत्र यस्मिन् मृगगोचरादिपीडारहिते देशे अन्नपानादि
भूयिष्ठं बहुलं विद्यत इति मन्येत प्रावृषीव वर्षाकाले तृणोदकं
बहुलं विद्यते तद्वत् । तृणोलपमिति केचिन्– 'तृणोलपमिति
ख्यातो मुनिभोज्यौदनादिषु' इति वदन्ति । पूज्यदूर्वा विशेष
इति केचित् । तत्र स्थित्वा तन् अन्नपानादिकमुपजीवेन् ।