This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
बले वलवतामिव, यथा बलवतो राज्ञः बलवन्तं राजानं दृष्ट्वा
अहमस्मादपि बलवत्तां संपाद्यैनं जित्वा अस्मादपि सुखी भू-
यासमिति संघर्षो वर्तते तद्वत् । ते फलसङ्गसहिताः ब्राह्मणा य-
ज्ञाधिकारिण इतः प्रेत्य धूमादिमार्गेण गत्वा स्वर्गे नक्षत्रादि-
रूपेण यान्ति प्राप्नुवन्ति प्रकाशताम् । श्रूयते च – ' अथ य
इमे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति ' इत्यार-
भ्य ' एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति याव-
त्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते इति । येषां वि-
षयानाकृष्टचेतसामनित्यफलसाधनज्योतिष्टोमादौ धर्मे न च
स्पर्धा संघर्षो न वर्तते तेषां फलनिरपेक्षमीश्वरार्थ कर्मानुति-
ष्ठतां तत् यज्ञादिकं कर्म शुद्धिद्वारेण ज्ञानसाधनम् । वक्ष्यति
च स्वयमेव भगवान् शुद्धिद्वारेणैव ज्ञानसाधनत्वम् – 'पुण्येन
पापं विनिहत्य पश्चात्स जायते ज्ञानविदीपितात्मा' इति । ये
यज्ञादिभिः विशुद्धसत्त्वाः परमात्मानमात्मत्वेनावगच्छन्ति, ते
ब्राह्मणा इतः अस्मात्कार्यकारणलक्षणाल्लोकात्प्रेत्य मुक्ताः स्वर्ग
सुखलक्षणं पूर्णानन्दं ब्रह्म यान्ति प्राप्नुवन्ति । इतरस्मात्स्वर्गा-
दस्य वैलक्षण्यमाह—त्रिविष्टपमिति । त्रिभिराध्यात्मिकादिता-
पैः, सत्त्वादिभिर्वा, जाग्रदादिभिर्वा विमुक्तं स्वरूपाविष्टं पातीति
त्रिविष्टपम् । अथवा, तैर्विष्टमधिकारिणं पातीति त्रिविष्टपम् ॥
 
२२२