This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
च स्पर्धा तेषां तज्ज्ञानसाधनम्' इति । यश्चैवं विनियोगज्ञ
ईश्वरार्थ कर्मानुतिष्ठति तस्य विद्वषो धर्मः पापान वलीयान
इति विद्धि विजानीहि । तस्य पुनः केवलकर्मिणो न वली-
यान् ; तस्योभयोरनुभव एव नान्यतरेणान्यतरस्य विनाशः ॥
केषां तर्हि स्वर्गादिसाधनम केषां वा चित्तशुद्धिद्वारेण
ज्ञानसाधनम् ? इति : तत्राह श्लोकद्वयेन –
 
येषां धर्मेषु विस्पर्धा
 
.
 
बले बलवतामिव ।
 
ते ब्राह्मणा इतः प्रेत्य
 
स्वर्गे यान्ति प्रकाशनाम् ॥ २५ ॥
 
येषां धर्मेन च स्पर्धा
 
तेषां तज्ज्ञानसाधनम् ।
 
ते ब्राह्मणा इतो मुक्ताः
 
स्वर्ग यान्ति त्रिविष्टपम् ॥ २६ ॥
 
२२१
 
येषां विषयपराणां स्वर्गादिवासे ऊर्वश्यादिभोगश्रवणात्त-
त्साधनभूतेषु ज्योतिष्टोमादिषु धर्मेषु विस्पर्धा संघर्षो वर्तत
अस्मादहमुत्कृष्टतरं धर्मं कृत्वा अस्मादपि सुखी भूयासमिति ।