This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
किमविदुषः अनुभव एवोभयोः उतान्यतरेणान्यतरनाश
इति, तत्राह -
 
गत्वोभयं कर्मणा भुज्यतेऽस्थिरं
 
शुभस्य पापस्य स चापि कर्मणा ।
धर्मेण पापं प्रणुदतीह विद्वा-
6
 
धर्मो बलीयानिति नस्य विद्धि ॥ २४ ॥
गत्वा परलोकं प्राप्य उभयं पुण्यापुण्यसाध्यं फलं पुण्यापु-
ण्यलक्षणेन कर्मणा भुज्यते अस्थिरम् । श्रूयते च बृहदाण्यके-
'यो वा एतदक्षरं गार्ग्यविदित्वास्मिँल्लोके जुहोति इति ।
'अथ येऽन्यथातो विदुरन्य राजानस्ते क्षय्यलोका भवन्ति '
इति च्छान्दोग्ये । स चापि सोऽपि विद्वान कर्मणा धर्मेण पापं
प्रणुदति विनाशयति इह लोके विद्वान् वक्ष्यमाणलक्षणो वि-
नियोगज्ञ ईश्वरार्थ कर्मानुतिष्ठन् । तथा च वक्ष्यति - तदर्थ-
मुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान् । पुण्येन पापं
विनिहत्य पश्चात्स जायते ज्ञानविदीपितात्मा ॥ ज्ञानेन चात्मा-
नमुपैति विद्वानथान्यथा स्वर्गफलानुकाङ्क्षी । अस्मिन्कृतं
तत्परिगृह्य सर्वममुत्र भुङ्गे पुनरेति मार्गम्' इति । 'येषां
धर्मे च विस्पर्धा न तद्विज्ञानसाधनम् । येषां धर्मे न